संस्कृतवार्ताः

काञ्चीपुरस्य श्रीमठे पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिनां जयन्ती महोत्सव: आचरित:। प्रात:काले श्रीमठे जयन्तीदिन महोत्सव कार्याणि सुप्रभातेन पूज्यश्री आचार्याणां विश्वरूपदर्शनेन च साकमारब्धानि। श्रीमठस्य नादस्वर विदुषां मङ्गल नादेन शुभदिनस्य शुभारम्भोऽभवत्।
पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: पूज्यश्री चन्द्रशेखरेन्द्रसरस्वती महास्वामिनामधिष्ठानं मालाभि:, राङ्कवेण, पुष्प किरीटेन चालञ्चक्रु:। पूज्यश्री शङ्कर जयेन्द्रसरस्वतीस्वामिभ्य: पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिभि: स्वर्ण पाद पूजा कृता। पूज्यश्री आचार्याणामुपरि पण्डिता: पुष्पाञ्जलिस्तोत्रमकीतयन्। तत: पुष्पाभिषेकोऽभवत्। होमकलशात् पूतीकृत जलै: पूज्यश्री आचार्येभ्य: अभिषेक: कृत:।

२ मार्च २०१६ माघ कृष्णाष्टम्यां पूज्यश्री जयेन्द्रसरस्वतीस्वामिनां पूज्यश्री विजयेन्द्रसरस्वतीस्वामिनाञ्च दिव्य सन्निधौ श्री काञ्ची कामकोटी पीठस्य ६६तम आचार्याणां पूज्यश्री चन्द्रशेखरेन्द्रसरस्वती शङ्कराचार्यस्वामिनामाराधनमनुष्ठितम्।
द्रविडदेशे चेङ्गल्पेट् इत्यस्मिन् मण्डले उदयम्बाक्क ग्रामे ६६तम आचायाणां दिव्य जननमभवत्। पूज्यश्री आचार्या: अद्वैत वेदान्त शास्त्राध्ययनस्य अभिवृद्ध्यर्थं संरक्षणार्थञ्च अद्वैत सभाया: निर्माणञ्चक्रु:। १९०७ वर्षे आर्काट् मण्डले कलवै इत्यस्मिन् क्षेत्रे ते स्वामिन: मुक्तिमलभन्त।
पूज्यश्री जयेन्द्रसरस्वती शङ्कराचार्य स्वामिन: कलवै इत्यस्मिन् क्षेत्रे पूज्यश्री आचार्याणामधिष्ठानमभ्यागत्य पूजां दीपाराधनञ्चाकुर्वन्।

श्व: (५ मार्च २०१६) काञ्चीपुरस्य श्रीमठे पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिनां जयन्ती महोत्सव: आचरित: भविष्यति।

अद्य सायंकाले षड्वादने टी नगरे वर्तमानायां वाणी महाल् नाम सङ्गीतसभायां पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: नाम सङ्कीर्तन वैभवमनुगृह्य काण्पुर् श्री महादेव भागवताय श्री काञ्ची महास्वामी नाम सुधा वाणी नाम पुरस्कारं प्रदास्यन्ति।

अनुष: - स्वर्ण रथ: - १ मार्च २०१६
अनुषदिने काञ्चीपुरस्य श्रीमठे १ मार्च २०१६ पूज्यश्री शङ्कर जयेन्द्रसरस्वतीस्वामिन: पूज्यश्री महनीय महास्वामिनामधिष्ठानं परित: पूज्याश्री चन्द्रशेखरेन्द्रमहास्वामिनां स्वर्ण रथमनयन् दीपाराधनञ्चाकुर्वन्।

ब्रह्मपुरे पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: त्रिकालपूजामकुर्वन्। तत: पूज्यश्री आचार्या: ब्रह्मपुरात् अष्टक्रोशे वर्तमानं कूत्तियम्पेट्टै नाम ग्राममभ्यागता:। पूज्यश्री आचार्या: विष्णु मन्दिरे आहृता:।
पूज्यश्री आचार्या: रात्रौ काञ्चीपुरमासादिता:। तत: बृहद्काञ्चीपुरसीमायां कामाक्षी मदिरस्य प्रसादै:, सिद्धीश्वरस्य मन्दिरे श्रीकार्यै: स्थानीकैश्च, पारम्पर्य तीर्थ पुरोहितेन पूर्णकुम्भ स्वागत रीत्याश्चाहृता:। तत: पूज्यश्री आचार्या: काञ्ची मठमासादिता:।

पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीशङ्कराचार्यस्वामिन: पोन्सेय् इत्यस्मिन् स्थले वर्तमानं शीतलादेव्या: मन्दिरमभ्यागता:। तÒन्दिरं मायूरपुरी - पूम्पुहार् चेत्येतयो: मार्गात् किडारङ्कोण्डानित्यस्यस्थान समीपे मायूरपुरी - आक्कूर् चेत्येतयोर्मार्गे वर्तते। पोन्सेय् नाम ग्रामं सेम्बनार्मन्दिरात् ४ क्रोशे करुवी इत्यस्मात् स्थलाच्च ३.५ क्रोशे वर्तते। किडारङ्कोण्डान् अग्रहार:, किराङ्कोण्डान् पत्रालयश्च अन्ये स्थण्डिले। इदानीं श्रीकार्याणि प्रचलन्ति। शिलायां अति सुन्दररीत्या मण्डपा: पुनर्निर्मिता:। मन्दिरस्य तडाग: नवीकृत:। पूज्यश्री आचार्या: मन्दिरं अग्रहारञ्चाभ्यागता:।
तत: पूज्यश्री आचार्या: श्रीश्वेतारण्यक्षेत्रे वर्तमानं श्री काञ्ची कामकोटी पीठस्य ५७तम आचार्याणां पूज्यश्री परमशिवेन्द्र सरस्वतीस्वामिनामधिष्ठानमभ्यागता:।
तत: पूज्यश्री आचार्या: ब्रह्मपुरे श्री काञ्ची कामकोटी पीठस्य शिवागम पाठशालां श्रीज्ञानसम्बन्धमूर्तिन: गृहञ्चाभ्यागता:। पूज्यश्री आचार्या: प्रसृतिकार्यस्य निरीक्षणमकुर्वन्। पूज्यश्री आचार्याणां दिव्य सन्निधौ पाठशालाया: अध्यापक: श्री कण्णप्प शिवाचार्य: मध्यार्जुनक्षेत्रस्य माहाम्यमकीर्तयत्। पूज्यश्री आचार्या: तत: श्रीमठं प्रत्यागता:। प्रात:काले पूज्यश्री आचार्या: त्रिकालपूजाञ्चक्रु:।

१८ २ २०१६
सायंकाले पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: आदि कुम्भेश्वरस्य मन्दिरमभ्यागता:। आदिकुम्भेश्वरस्य मङ्गलाम्बिकायाश्च सन्निधौ पूज्यश्री आचार्याणं दर्शनमभवत्। पूज्यश्री आचार्यान् वैदिक पण्डिता: अनुगतवन्त:। पूज्यश्री आचार्याणां दिव्य सन्निधौ चतुर्वेदपारायणमभवत्। पूज्यश्री आचार्या: कैलासदर्शनोत्सवं दृष्टवन्त:।

१८ २ २०१६
ह्य: महामहतडागे पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: स्नानं कृता:। पूज्यश्री आचार्या: स्वर्णकमलतडागं चक्रतीर्थञ्चाभ्यागता: श्रीमठं प्रत्यागताश्च।

कुम्भघोणस्य श्रीमठे भजनम्
कुम्भघोणस्य श्री मठे पूज्यश्री शङ्कर जयेन्द्रसरस्वतीस्वामिनां पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिनाञ्च दिव्य सन्निधौ गायक: श्री वीरमणि राजू तस्य सहगायकैस्साकं भजनं कृतवान्।

१६ २ २०१६ पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: कुम्भघोणे भक्तपुरी वीथ्यां कल्याणपुरं धर्म संस्थापनस्य श्रौत विद्या पाठशालां, मीनाक्षी सुन्दरेश्वरस्य मन्दिरञ्चाभ्यागता:। श्रौत विद्या पाठशालायां पूज्यश्री आचार्याणामनुग्रह भाषणमभवत्।

१४ २ २०१६ पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: कुम्भघोणात् ३५ क्रोश दूरे, अणैकरै नाम ग्रामात् १० क्रोश दूरे च वर्तमानं सिरुक्कट्टूर् ग्राममभ्यागता:। पूज्यश्री आचार्या: अग्रहार वीथ्यां विनायक मन्दिरं, एकाम्रेश्वर मन्दिरं, बङ्गारु कामाक्षी मन्दिरञ्चाभ्यागता:। तत: नवनिर्मित काञ्ची परमाचार्य प्रार्थना मन्दिरस्य उद्घाटनं कृता:।

६२ वर्षेभ्य: पूर्वं स: ग्राम: महनीय महास्वामिभि: अनुगृहीत: इति पूज्यश्री आचार्या: संस्कृत भाषायां आत्मना कृत स्वागत भाषणे उक्तवन्त:।

पूज्यश्री आचार्या: अनुग्रह भाषणं कृतवन्त:, श्रीमठेन सह सम्बन्धित प्राचीन ग्रामस्य प्रार्थना मन्दिरस्य तत्रत्यानां भक्तानामुद्यमं श्लाघितवन्तश्च।

राममन्दिराय अभ्यागमनम् - १४ फिब्रवरी २०१६

१४ फिब्रवरी २०१६ भानुवासरे पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: राममन्दिरमभ्यागता: शुक्ल यजुर्वेद पारायण कार्यक्रममनुगृहीतवन्तश्च। बहु वर्षादारभ्य एतत् मन्दिरं वेद धर्म शास्त्र परिपालन सम्मेलनानि, वेद पारायणानि, चान्य धार्मिक कार्यक्रमान् चालयदस्ति। महामहोत्सवमुद्दिश्य अशीत्यधिक शुक्ल यजुर्वेद पण्डिता: शुक्ल यजुर्वेद पारायणं कुर्वन्ति। पूज्यश्री आचार्या: स्व अनुग्रह भाषणेन सम्मेलनमनुगृहीतवन्त:।

१५ २ २०१६ पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: सेम्मङ्गुडी ग्रामे ऐ टी ऐ संस्थापनमभ्यागता:। इदं तु त्रिंशद्वर्ष पुराणं स्थापनम्। अनेन स्थापनेन वैद्युतकशास्त्रम्, वातनियन्त्रकसन्धानम्, जलनालिकाशिल्पम्, धातुसंयोजनम्, यन्त्रशास्त्रम् इत्यादिषु क्षेत्रेषु सप्तसहस्राधिक पाटविकजनेभ्य: प्रशिक्षणं प्रदत्तम् भवति। समीपस्थ कोळत्तूर् ग्रामस्य श्रीमठस्य भक्तजनै: अस्या: संस्थाया: निर्वाह: कृत: भवति।
पूज्यश्री आचार्या: श्रीविद्या गणपति मन्दिरमभ्यागता: अनुग्रह भाषणं कृताश्च। पूज्यश्रीआचार्या: तस्यां संस्थायां ऐ टी ऐ इत्यत्र पाटविकजनानां प्रशिक्षणार्थमुपयुक्त तन्त्राणामति सूक्ष्म्तया निरीक्षणं कृतवन्त:।

श्रव्यसञ्चिका संयोजिता - सेम्मङ्गुडी ग्रामे ऐ टी ऐ इत्यत्र छात्रेभ्य: पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिभि: प्रदत्तमनुग्रह भाषणम्। - अनुग्रह भाषणं

कल्वैत्त वारम् - कुम्भकोणम् - १४ फिब्रवरी २०१६
१४ २ २०१६ कल्वैत्तवारमिति विशिष्ट वैदिक परीक्षा चालिता। त्रिंशत् विद्वज्जना: भागं स्वीकृता:, तेषु दश जना: विजेतार: इति उद्घोषिताश्च। पूज्यश्री आचार्याणां दिव्य सन्निधौ परीक्षाधिकारी विजेतारश्च सम्मानिता:। पूज्यश्री आचार्या: स्वानुग्रह भाषणे वैदिक ज्ञानस्य तस्य सम्पूर्णतया परिरक्षण मुख्यत्वस्य आवश्कत्वमुक्तवन्त:। पूज्यश्री आचार्या: वैदिक ज्ञानस्य परिरक्षणेन साकं वैदिकानां सम्मानस्यऽपि मुख्यत्व विषये उक्तवन्त:।

१३ २ २०१६ शनिवासरे मुल्लैवासल् ग्रामत: प्रत्यागमन समये पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: पेरम्बूर् आलङ्गुडी ग्रामावभ्यागता:। पूज्यश्री आचार्या: पेरम्बूर् ग्रामे भजन मठं, शिवमन्दिरं, पेरुमाळ्मन्दिरञ्च, आलङ्गुडी ग्रामे भजन मठञ्चाभ्यागता:।

शनिवासरे १३ २ २०१६ पूज्यश्री शङ्कर विजयेन्द्रसरस्वतीस्वामिन: नीडामङ्गलसमीपस्थ मुल्लैवासल् ग्राममभ्यागता:। पूज्यश्री आचार्या: शिवमन्दिरं पेरुमाळ्मन्दिरञ्चाभ्यागता:। तत्र वर्तमान तीर्थस्य नाम मृगपदतीर्थम्। तत्तीर्थं हरिणेन खातमिति कारणेन तस्य तीर्थस्य नाम मृगपद तीर्थमिति महामहोपाध्याय: श्री कृष्णमूर्ति महोदय: उक्तवान्। पूज्यश्री आचार्या: अनुग्रह भाषणं दत्तवन्त:। कुम्भकोणे श्री मठाय प्रत्यागमनात् पूर्वं पूज्यश्री आचार्या: ग्रामद्वयमभ्यागता:।

 


Back to news page