Sadguru Dashakam on Pujyashri Mahaswamigal

24-05-2021

Sadguru Dashakam on Pujyashri Chandrasekharendra Saraswathi Mahaswamigal by Pujyashri Shankara Vijayendra Saraswathi Swamigal 

श्रुतिस्मृतिपुराणोक्तधर्ममार्गरतं गुरुम् ।
भक्तानां हितवक्तारं नमस्ये चित्तशुद्धये ।।
अद्वैतानन्दभरितं साधूनाम् उपकारिणम्।
सर्वशास्त्रविदं शान्तं नमस्ये चित्तशुद्धये ।।
कर्मभक्तिज्ञानमार्गप्रचारे बद्धकङ्कणम्।
अनुग्रहप्रदातारं नमस्ये चित्तशुद्धये ।।
भगवद्पादपादाब्जविनिवेशितचेतसः।
श्रीचन्द्रशेखरगुरो: प्रसादो मयि जायताम्।।
क्षेत्रतीर्थकथाभिज्ञः सच्चिदानन्दविग्रहः ।
चन्द्रशेखरवर्योमि सन्निधत्तां सदाहृदि ।।
पोषणे वेदशास्त्राणाम् दत्तचित्तमहर्निशम् ।
क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम् ।।
वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः ।
गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम् ।।
मणिवाचकगोदादिभक्तिवागमृतैर्भृशम् ।
बालानां भगवद्भक्तिं वर्धयन्तं गुरुं भजे ।।
लघूपदेशैर्नास्तिक्यभावमर्दनकोविदम् ।
शिवं स्मितमुखं शान्तं प्रणतोस्मि जगद्गुरुम् ।।
विनयेन प्रार्थयेहम् विद्यां बोधय मे गुरो!
मार्गमन्यं न जानेऽहं भवन्तं शरणं गतः ।।










Back to news page