Siddheshwarashtakam composed by Pujya Mahaswamiji chanted at Prayagraj

29-06-2023

Siddheswarashtakam by Pujyashri Kanchi Mahaswamiji in the year 1934 was chanted at Sri Siddheshwar Mandir at #Prayagraj on 29 Jun. 2023 during the visit of Pujyashri Shankara Vijayendra Saraswathi Shankaracharya Swamigal. kamakoti
 
Watch the video at https://youtu.be/3zMaAeTPb-Q
 
 

 

 

Siddheswarashtakam composed by Shankaracharya Pujya Mahaswamiji of Sri Kanchi Kamakoti Peetam

सिद्धेश्वराष्टकम्

महातीर्थराजस्य तीरे विभान्तं
महाभूतिरूपं महात्मैकवेद्यम् ।
महासिद्धिपूरप्रदानैकदक्षं
भजामैव सिद्धेश्वरं सिद्धशम्भुम् ॥ १॥ 
          मनोजस्त्वदक्ष्यग्निभस्मावशेषः
          मदान्धश्च दक्षो गतश्शोच्यभावम् ।
          मनोजातदाक्ष्याग्नितान्तो मदान्धः
          भजे निर्मदत्वाय सिद्धेश्वरं त्वाम् ॥ २॥
इयं चापि गङ्गा निबद्धा कपर्दे
मदाढ्या यतस्सा कणक्षीरकल्पम् ।
विसृष्टा जगत्पापनाशाय येन
स्वयंसिद्ध सिद्धेश्वरं चिन्तयैनम् ॥ ३॥
          न तेऽन्तो न चादिर्हरिस्सोऽपि धाता
          वराहीभवन्नूर्ध्वहंसीभवंश्च ।
          दधाते हि साक्ष्यं भजे भान्तमेव
          महालिङ्गरूपेण सिद्धेश्वरं त्वाम् ॥ ४॥
शिवोऽयं प्रदेशो महान् मध्यदेशः
शिवा जाह्नवी नित्यसिद्धप्रवाहा ।
शिवस्त्वं शिवं नित्यसिद्धं दधानः
शिवो नः सदा देव सिद्धेश्वर स्याः ॥ ५॥
          पदाब्जे त्वदीये स्वकीयाक्षिपद्मं
          पुरा भूषणत्वेन नारायणोऽदात् ।
          इतीदं पुरावृत्तमद्यात्र सत्यं
          बदर्यो हरिस्साधु सिद्धेश्वरादात् ॥ ६॥
कपर्दात् त्वदीयाद्विसृष्टापि गङ्गा
पुनस्सेवितुं त्वामहो बद्धवाञ्छा ।
सकाशे त्वदीयेऽतिभारप्रवाहा
निजाम्भोऽभिषेकाय सिद्धेश्वरागात् ॥ ७॥
          न मत्तोऽस्म्यहं चेन्न मत्तोऽसि भिन्नः
          नमत्तोषितस्त्वं नमत्तोषदाता ।
          न मत्तोऽसि भिन्नस्त्वमित्यैक्य तोषं
          नमद्भ्यः प्रदेहीह सिद्धेश्वर त्वम् ॥ ८॥
इति प्रयागसिद्धेशभक्ति भृज्जनता हृदि ।
श्लोकाष्टकमिदं पुण्यं नित्यं वर्धयतां शुभम् ॥ ९॥
इति महापेरियवा श्री चन्द्रशेखरेन्द्रसरस्वतीविरचितं
                सिद्धेश्वराष्टकं सम्पूर्णम् ।
                


Back to news page




Prev.::Visesha Pujas at Shrimatam in July 2023

Next.::Pujya Shankaracharya Swamiji performs Vyasa Puja at Triveni Sangam- Prayagraj