मंत्रमातृकापुष्पमालास्तवः

 

कल्लोलोल्लसितामृताब्धिलहरीमध्यॆ विराजन्मणि-

द्वीपॆ कल्पकवाटिकापरिवृतॆ कादम्बवाट्युज्ज्वलॆ।

रत्नस्तंभसहस्रनिर्मितसभामध्यॆ विमानोत्तमॆ

चिन्तारत्नविनिर्मितं जननि तॆ सिंहासनं भावयॆ॥१॥

 

ऎणांकानलभानुमंडललसच्छ्रीचक्रमध्यॆ स्थितां

बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम्।

चापं बाणमपि प्रसन्नवदनं कौसुम्भवस्त्रान्वितां

तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भवयॆ॥२॥

 

ईशानादिपदं शिवैकफलकं रत्नासनं तॆ शुभं

पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यम् सरत्नाक्षतैः।

शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं

कारुण्यामृतवारिधॆ तदखिलं संतुष्टयॆ कल्पताम्॥३॥

 

लक्ष्यॆ योगिजनस्य रक्षितजगज्जालॆ विशालॆक्षणॆ

प्रालॆयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः।

गोक्षीरैरपि नारिकॆळसलिलैः शुद्धोदकैर्मन्त्रितैः

स्नानं दॆवि धिया मयैतदखिलं संतुष्टयॆ कल्पताम्॥४॥

 

ह्रींकाराङ्कितमन्त्रलक्षिततनो हॆमाचलात्सञ्चितैः

रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम्।

मुक्तासंततियज्ञसूत्रममलं सौवर्णतन्तूद्भवं

दत्तं दॆवि धिया मयैतदखिलं सन्तुष्टयॆ कल्पताम्॥५॥

 

हंसैरप्यतिलोभनीयगमनॆ हारावळीमुज्ज्वलां

हिन्दोलद्युतिहीरपूरिततरॆ हॆमाङ्गदॆ कङ्कणॆ।

मञ्जीरौ मणिकुण्डलॆ मकुटमप्यर्धॆंदुचूडामणिं

नासामौक्तिकमङ्गुळीयकटकौ काञ्चीमपि स्वीकुरु॥६॥

 

सर्वाङ्गॆ घनसारकुङ्कुमघनश्रीगन्धपङ्कांकितं

कस्तूरीतिलकं च फालफलकॆ गोरोचनापत्रकम्।

गण्डादर्शनमंडलॆ नयनयोर्दिव्याञ्जनं तॆऽञ्चितं

कण्ठाब्जॆ मृगनाभिपकममलं त्वत्प्रीतयॆ कल्पताम्॥७॥

 

कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्कॆरुहै-

र्जातीचम्पकमालतीवकुलकैर्मन्दारकुंदादिभिः।

कॆताक्या करवीरकैर्बहुविधैः क्लृप्ताः स्रजोमालिकाः

सङ्कल्पॆन समर्पयामि वरदॆ सन्तुष्टयॆ गृह्यताम्॥८॥

 

हंतारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै

र्यैर्भृङ्गावळिनीलकुंतलभरैर्बध्नासि तस्याशयम्।

तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा

ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपयॆ॥९॥

 

लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरॆ मन्दिरॆ

मालारूपविलम्बितैर्मणिमयस्तंभॆषु सम्भावितैः।

चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वर्धितै-

र्दिव्यैर्दीपगणैर्धिया गिरिसुतॆ सन्तुष्टयॆ कल्पताम्॥१०॥

 

ह्रींकारॆश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं

दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभॆदं तदा।

दुग्दान्नं मधुशर्करादधियुतं माणिक्यपात्रॆ स्थितं

माषापूपसहस्रमंब सकलं नैवॆद्यमावॆदयॆ॥११॥

 

सच्छायैर्वरकॆतकीदलरुचा ताम्बूलवल्लीदलैः

पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः।

मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्रांबुजामोदनैः

पूर्णा रत्नकलाचिका तव मुदॆ न्यस्ता पुरस्तादुमॆ॥१२॥

 

कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका-

पात्रॆ मौक्तिकचित्रपङ्क्तिविलसत्कर्पूरदीपालिभिः।

तत्तत्तालमृदङ्गगीतसहीतं नृत्यत्पदांभोरुहं

मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम्॥१३॥

 

लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्तॆ रसा-

दिन्द्राणी च रतिश्च चामरवरॆ धत्तॆ स्वयं भारती।

वीणामॆणविलोचनाः सुमनसां नृत्यन्ति तद्रागव-

द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम्॥१४॥

 

ह्रींकारत्रयसंपुटॆन मनुनोपास्यॆ त्रयीमौलिभि-

र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वाक्ष मॆतांबिकॆ।

सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार ऎवास्तु तॆ

संवॆशो नमसः सहस्रमखिलं त्वत्प्रीतयॆ कल्पताम्॥१५॥

 

श्रीमन्त्राक्षतमालया गिरिसुतां यः पूजयॆच्चॆतसा

संध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः।

चित्ताम्भोरुहमण्टपॆ गिरिसुतानृत्तं विधत्तॆ रसा-

द्वाणी वक्त्रसरोरुहॆ जलधिजा गॆहॆ जगन्मङ्गळा॥१६॥

 

इतिगिरिवरपुत्रीपादराजीवभूषा

भुवनममलयन्ती सूक्तिसौरभ्यसारैः।

शिवपदमकरन्दस्यंदिनीयं निबद्धां

मदयतु कविभृंगान्मातृकापुष्पमाला॥१७॥

 

                        हर हर शंकर जय जय शंकर

 

                        हर हर शंकर जय जय शंकर